मधु᳚ नो॒ द्यावा᳚पृथि॒वी मि᳚मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते ।
दधा᳚ने य॒ज्ञं द्रवि᳚णं च दे॒वता॒ महि॒ श्रवो॒ वाज᳚म॒स्मे सु॒वीर्य᳚म् ॥
दधा᳚ने य॒ज्ञं द्रवि᳚णं च दे॒वता॒ महि॒ श्रवो॒ वाज᳚म॒स्मे सु॒वीर्य᳚म् ॥
पदपाठः (Word-by-word)
मधु᳚ । नः॒ । द्यावा᳚पृथि॒वी इति᳚ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒॑श्चुता᳚ । म॒धु॒दुघे॒ इति᳚ म॒धु॒॑दुघे᳚ । मधु᳚व्रते॒ इति॒ मधु᳚॑व्रते ।
दधा᳚ने॒ इति᳚ । य॒ज्ञम् । द्रवि᳚णम् । च॒ । दे॒वता᳚ । महि᳚ । श्रवः᳚ । वाज᳚म् । अ॒स्मे इति᳚ । सु॒॑वीर्य᳚म् ॥
दधा᳚ने॒ इति᳚ । य॒ज्ञम् । द्रवि᳚णम् । च॒ । दे॒वता᳚ । महि᳚ । श्रवः᳚ । वाज᳚म् । अ॒स्मे इति᳚ । सु॒॑वीर्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
मधुश्चुतः उदकस्य क्षारयित्र्यौ मधुदुघे उदकदोग्ध्र्यौ मधुव्रते उअदकार्थकर्माणौ देवता देवताभूते अस्मे अस्मासु यज्ञं द्रविणं धनं च महि महत् श्रवोयशः वाजमन्नं सुवीर्यं सुवीरत्वं च दधाने ददत्यौ द्यावापृथिवी द्यावापृथिव्यौ नोस्मान् मधु मधुना तृतीयैकवचनस्य लुक् मिमि क्षतां सिंचतां ॥ ५ ॥