श्रवणम्

6.70.3
यो वा᳚मृ॒जवे॒ क्रम᳚णाय रोदसी॒ मर्तो᳚ द॒दाश᳚ धिषणे॒ स सा᳚धति ।
प्र प्र॒जाभि᳚र्जायते॒ धर्म᳚ण॒स्परि᳚ यु॒वोः सि॒क्ता विषु᳚रूपाणि॒ सव्र᳚ता ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । ऋ॒जवे᳚ । क्रम᳚णाय । रो॒द॒सी॒ इति᳚ । मर्तः᳚ । द॒दाश᳚ । धि॒ष॒णे॒ इति᳚ । सः । सा॒ध॒ति॒ ।
प्र । प्र॒॑जाभिः᳚ । जा॒य॒ते॒ । धर्म᳚णः । परि᳚ । यु॒वोः । सि॒क्ता । विषु᳚॑रूपाणि । स॑व्र᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

धिषणे धृष्टे सर्वस्य भुवनस्य निवासभूते वा हे रोदसी वां युवाभ्यां यो मर्तो मर्त्यः ऋजवे क्रमणाय युवयोः सुखगमनाय ददाश हवींषि ददाति स मर्त्यः साधति कामान् साधयति । किं च प्रजाभिः पुत्रपौत्रादिभिः प्रजायते प्रवृद्धो भवति । धर्मणः कर्मणः परिउपरि युवो- र्युवयोः सिक्ता सिक्तानि रेतांसि विषुरूपाणि नानावर्णानि सव्रता समानकर्माणि भुतानि जायन्ते ॥ ३ ॥