श्रवणम्

6.70.2
अस᳚श्चन्ती॒ भूरि᳚धारे॒ पय᳚स्वती घृ॒तं दु᳚हाते सु॒कृते॒ शुचि᳚व्रते ।
राज᳚न्ती अ॒स्य भुव᳚नस्य रोदसी अ॒स्मे रेतः᳚ सिञ्चतं॒ यन्मनु᳚र्हितम् ॥
▶ पदपाठः (Word-by-word)
अस᳚श्चन्ती॒ इति᳚ । भूरि᳚धारे॒ इति॒ भूरि᳚॑धारे । पय᳚स्वती॒ इति᳚ । घृ॒तम् । दु॒हा॒ते॒ इति᳚ । सु॒॑कृते᳚ । शुचि᳚व्रते॒ इति॒ शुचि᳚॑व्रते ।
राज᳚न्ती॒ इति᳚ । अ॒स्य । भुव᳚नस्य । रो॒द॒सी॒ इति᳚ । अ॒स्मे इति᳚ । रेतः᳚ । सि॒ञ्च॒त॒म् । यत् । मनुः᳚॑हितम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

असश्चन्ती असज्यमाने व्युदस्यंत्यौवा भूरिधारे बहुधारे दिवो वृष्टिधाराः पृथिव्याश्चाहुत्युद्भूतरसधाराः एवमुभयोरपि बहुधारत्वं पयस्वती उदकवत्यौ तथा च यास्कः-असज्यमाने इतिवाव्युदस्यंत्याविति वा बहुधारे उदकवत्याविति । शुचिव्रते शुचिक्रिये द्यावापृ- थिव्यौ सुकृते शोभनकारिणे यजमानाय घृतं सस्यादिसमृद्धिहेतु उदकं दुहाते । अथ प्रत्यक्षस्तुतिः रोदसी हे द्यावापृथिव्यौ अस्य भुवनस्य भूतजातस्य राजन्ती ईशाते युवां अस्मै अस्मासु रेतः प्रजननसमर्थं वीर्यं सिंचतं यद्रेतोमनुर्हितं मनुष्येभ्यो हितं ॥ २ ॥