विष्णु᳚र्गो॒पाः प᳚र॒मं पा᳚ति॒ पाथः᳚ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः ।
अ॒ग्निष्टा विश्वा॒ भुव᳚नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
अ॒ग्निष्टा विश्वा॒ भुव᳚नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
विष्णुः᳚ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः᳚ । प्रि॒या । धामा᳚नि । अ॒मृता᳚ । दधा᳚नः ।
अ॒ग्निः । ता । विश्वा᳚ । भुव᳚नानि । वे॒द॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
अ॒ग्निः । ता । विश्वा᳚ । भुव᳚नानि । वे॒द॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
विष्णुर्व्याप्तो गोपाः सर्वस्य गोपयिता प्रिया प्रियतमान्यमृता क्षयरहितानि धामानि तेजांसि दधानः सोऽग्निः प्रममं पाथः स्थानं पाति । रक्षति । यद्वा । धामानि लोकधारकाण्यमृतोदकानि दधानः सन् परमं पाथ उदकस्य स्थानमन्तरिक्षं पाति । सोऽग्निस्ता तानि विश्वा सर्वाणि भुवनानि भुतजातानि वेद । जानाति । गोपाः । गोपायतेः क्विप्यतोलोपयलोपौ । अग्निष्टेत्यत्र संहितायां युष्मत्तत्त तक्षुः ष्वण्तः पादमिति षत्वं ॥ १० ॥