श्रवणम्

3.55.13
अ॒न्यस्या᳚ व॒त्सं रि᳚ह॒ती मि᳚माय॒ कया᳚ भु॒वा नि द᳚धे धे॒नुरूधः᳚ ।
ऋ॒तस्य॒ सा पय᳚सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒न्यस्याः᳚ । व॒त्सम् । रि॒ह॒ती । मि॒मा॒य॒ । कया᳚ । भु॒वा । नि । द॒धे॒ । धे॒नुः । ऊधः᳚ ।
ऋ॒तस्य᳚ । सा । पय᳚सा । अ॒पि॒न्व॒त॒ । इळा᳚ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यस्याः पृथिव्या वत्समग्निं रिहत्युदकधारारूपया जिह्वया लिहती द्यौर्मिमाय । मेघद्वारा ध्वनिं करोति । धेनुः प्रीणयित्री सा द्यौः कया जलवर्जिता भुवा तत्रत्यं जलमादाय स्वकीयमूधो मेघरूपं नि दधे । उदकेन निहितमकरोत् । सा जलवर्जितेळा पृथिव्यृतस्य सत्यभूतस्यादित्यस्य पयसोदकेनापिन्वत । वर्षकाले सिक्ता भवति । आदित्याज्जायते वृष्टिः । मनु? ३-७६ । इति स्मृतेः । रिहती । लिह आस्वादन इत्यस्य शतरि रूपम् । शतुरनुम इति ङीप उदात्तत्वम् । अपिन्वत । पिवि सेचने । मुचादिरात्मनेपदी । निघातः ॥ १३ ॥