श॒युः प॒रस्ता॒दध॒ नु द्वि᳚मा॒ताब᳚न्ध॒नश्च᳚रति व॒त्स एकः᳚ ।
मि॒त्रस्य॒ ता वरु᳚णस्य व्र॒तानि᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
मि॒त्रस्य॒ ता वरु᳚णस्य व्र॒तानि᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
श॒युः । प॒रस्ता᳚त् । अध᳚ । नु । द्वि॒॑मा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः᳚ ।
मि॒त्रस्य᳚ । ता । वरु᳚णस्य । व्र॒तानि᳚ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
मि॒त्रस्य᳚ । ता । वरु᳚णस्य । व्र॒तानि᳚ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
द्विमाता । हे द्यावापृथिव्यौ मातरौ यस्य स द्विमाता । यद्वा । ध्वयोर्लोकयोर्निर्माता सूर्यः परस्तात्पश्चिमायां दिश्यस्तवेलायां शयुः शयानोऽव्याप्रियमाणो भवति । अधनु अथोदयवेलायामेको द्यावापृथिव्योः साधारणस्तयो रसादानाद्वत्सः पुत्रोऽबन्धनोऽप्रतिबद्धगतिरनालंबन एकः सन् चरति । नभसि गच्छति । ता तानीमानि मित्रस्य वरुणस्य मित्रावरुनयोर्व्रतानि कर्माणि । शयुः । शीङ् स्वप्ने । भृमृशीतॄचरीत्यादिना उप्रत्ययः । द्विमाता । नद्यृतश्चेति प्राप्तस्य कप ऋतश्छन्दसीति प्रतिषेधः ॥ ६ ॥