श्रवणम्

3.55.2
मो षू णो॒ अत्र᳚ जुहुरन्त दे॒वा मा पूर्वे᳚ अग्ने पि॒तरः᳚ पद॒ज्ञाः ।
पु॒रा॒ण्योः सद्म᳚नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । नः॒ । अत्र᳚ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे᳚ । अ॒ग्ने॒ । पि॒तरः᳚ । प॒द॒॑ज्ञाः ।
पु॒रा॒ण्योः । सद्म᳚नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अत्रास्मिन्काले देवा नोऽस्मान् सु सुष्थु मो जुहुरन्त । माहिंस्युः । तथा पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः पूर्वे पुरातनाः पितरो मा हिंसिषुः । यस्मात्केतुर्यज्ञानां प्रज्ञापकः । सूर्यः पुरण्योः पुरातनयोः सद्मनोः । सीद्यन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोरन्तर्मध्य उदेति । तस्मादत्र मा हिंसन्त्वित्यर्थः । महद्देवानामित्यादि पुर्ववत् । जुहुरन्त । हृ प्रसह्यकरणे । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मने पदम् । बहुलं छन्दसीत्युत्वम् । संज्ञापुर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ॥ २ ॥