म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची उ॒भे ते अ᳚स्य॒ वसु᳚ना॒ न्यृ᳚ष्टे ।
शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
म॒ही इति᳚ । सम् । ऐ॒र॒त् । च॒म्वा᳚ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । उ॒भे इति᳚ । ते इति᳚ । अ॒स्य॒ । वसु᳚ना । न्यृ᳚ष्टे॒ इति॒ नि॑ऋ᳚ष्टे ।
शृ॒ण्वे । वी॒रः । वि॒न्दमा᳚नः । वसू᳚नि । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
शृ॒ण्वे । वी॒रः । वि॒न्दमा᳚नः । वसू᳚नि । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
मही महत्यौ समीची परस्परं सङ्गते चम्वा चमन्त्यदन्त्यनयोर्देवमनुय्ष्या इति चम्वौ । यद्वा चम्यते अद्येते भूतजातैरिति चम्वौ द्यावापृथिव्यौ । समैरत् । इन्द्रः प्रजापश्वादिभिः सम्यगयोजयत् । ते उभे द्यावापृथिव्यावस्येन्द्रस्य वसुना तेजसा धनेन वा न्यृष्टेनितराम् व्याप्ते भवतः । वीरः समर्थः स इन्द्रो वसूनि शत्रूनभिभूय तदीयानि धनानि विन्दमानो लभमानः सन् श्वण्वे । सर्वैः श्रूयते । तवेदिदमभितश्चेकिते वसु । ऋग्वे. १-५३-३ । इत्यादिषु दृष्टत्वात् । ऐरत् । ईर गतावित्यस्य लङि रूपम् । न्यृष्टे । ऋषी गतौ । कर्मणि क्तः । गतिरनन्तर इति गतेः । स्वरः । शृण्वे । श्रु श्रवण इत्यस्य व्यत्ययेन कर्मणि श्नुः । लोपस्त आत्मनेपदेष्विति तलोपः । विन्दमानः । विक्लृलाभ इत्यस्य लटि शानचि रूपम् । तस्य लसार्वधातुकस्वरे धातुस्वरः ॥ २० ॥