इ॒मां च᳚ नः पृथि॒वीं वि॒श्वधा᳚या॒ उप᳚ क्षेति हि॒तमि᳚त्रो॒ न राजा᳚ ।
पु॒र॒ःसदः᳚ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पु॒र॒ःसदः᳚ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्व॑धा᳚याः । उप᳚ । क्षे॒ति॒ । हि॒त॑मि᳚त्रः । न । राजा᳚ ।
पु॒रः॒॑सदः᳚ । श॒र्म॒॑सदः᳚ । न । वी॒राः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
पु॒रः॒॑सदः᳚ । श॒र्म॒॑सदः᳚ । न । वी॒राः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
विश्वधाया विश्वस्य धाता सर्वन्नो वा नोऽस्माकं राजेन्द्र इमां पृथिवीमन्तरिक्षं चोप तयोः समीपे क्षेति । निवसति । तत्र दृष्टान्तः । हितमित्रो न । यथा कस्यचित् । हितोपदेष्टा सुहृत्समीपे निवसति तद्वत् । वीराः समर्था युद्धसहाया मरुतः पुरःसदो युद्धार्थं पुरतो निश्चयेन गन्तार इन्द्रस्य शर्मसदः । न चार्थे । शर्मणि गृहे सीदन्तश्च भवन्ति । यत्र यत्रादौ तत्र तत्र सन्निधिं कुर्वाणा इत्यर्थः ॥ क्षेति । क्षि निवासगत्योरित्यस्य लटि बहुलं छन्दसीति विकरनस्य लुक् । निघातः ॥ २१ ॥