नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हा{4}श्च᳚रति रोच॒नेन᳚ ।
वपूं᳚षि॒ बिभ्र᳚द॒भि नो॒ वि च᳚ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
वपूं᳚षि॒ बिभ्र᳚द॒भि नो॒ वि च᳚ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन᳚ ।
वपूं᳚षि । बिभ्र᳚त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
वपूं᳚षि । बिभ्र᳚त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
पलितः पालयिता पूर्नो वा देवानां दूतोऽग्निरास्वोषधीषु निवेवेति । नितरां वाप्य वर्तते । महान् सोऽग्नी रोचनेन सूर्येण सहान्ता रोदस्योर्मध्ये चरति । वपूंषि नानाविधानि रूपाणि बिभ्रत् सोऽग्निर्नोऽस्मान् यष्टॄनभि विचष्टे । विशेषेणानुग्रहदृष्ट्या पश्यति । वेवेति । वी गत्यादिषु । यङ् लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । भिभ्रत् । डुभृञ् धारण पोषण् योरित्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥ ९ ॥