श्रवणम्

3.55.18
वी॒रस्य॒ नु स्वश्व्यं᳚ जनास॒ः प्र नु वो᳚चाम वि॒दुर᳚स्य दे॒वाः ।
षो॒ळ्हा यु॒क्ताः पञ्च᳚प॒ञ्चा व᳚हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
वी॒रस्य᳚ । नु । सु॒॑अश्व्य᳚म् । ज॒ना॒सः॒ । प्र । नु । वो॒चा॒म॒ । वि॒दुः । अ॒स्य॒ । दे॒वाः ।
षो॒ळ्हा । यु॒क्ताः । पञ्च᳚॑पञ्च । आ । व॒ह॒न्ति॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जनासो जना वीरस्य शूरस्येन्द्रस्य स्वश्व्यं शोभनाश्वोपेतत्वं नु क्शिप्रं प्र वोचाम । प्रकर्षेण वदाम । तथा देवा अप्यस्येन्द्रस्य स्वश्वतं विदुः । जानन्ति । किं तत्स्वश्वत्वम् । तदुच्यते । षोळ्हा मासानां द्वन्द्वयोगकाले षोढा दृश्यमाना ऋतवोऽश्वा निरूप्यन्ते । ते च षट्संख्याका ऋतवो हेमन्तशिशिरयोः समासेन पञ्च पञ्च युक्ताः सन्तः कालात्मकमिन्द्रमा वहन्ति । तदिदमिन्द्रस्य स्वश्वत्वं यदृतुभिरूधत्वम् । षोळ्हा । षष् शब्दात्संख्याया विधार्थे धेति धाप्रत्ययः । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च । पा. ६-३-१०९-३ । इत्युत्वं ष्टुत्वं च । प्रत्ययस्वरः ॥ १८ ॥