स हि क्षपा᳚वा॒न्त्स भग॒ः स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
सः । हि । क्षपा᳚॑वान् । सः । भगः᳚ । सः । राजा᳚ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
वृष्गभोऽपां वर्षको यद्यः पर्जन्यात्मेन्द्रोऽन्यासु दिक्षु रोरवीति मेघद्वारा भृशं शब्दं करोति स पर्जन्य इन्द्रोऽन्यस्मिन्यूथे दिशां वृन्दे रेत उदकं नि दधाति । तत्र वर्षति । लोके हि वृषभः कासुचिद्गोषु रेतः सेकार्थं रवं करोत्यन्यस्मिन् गोयूथे रेतः सिञ्चति । तद्वत् । स इन्द्रः क्षपावान् । क्शिपति शत्रूनुदकं वेति क्षेपणवान् । यद्वा । क्षपा रात्रिः । तथा रात्रिपर्याययागानां स्तोत्राणां भागभूता यारात्रिः सोच्यते । तद्वान् । स भगः । सर्वैर्भजनीयः । स राजा हि । तत्तत्कर्मानुरूपफलप्रदानेन सर्वेषां राजा खलु । रोरवीति । रु शब्द इत्यस्य यङ् लुगन्तस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्यामिति प्रथमस्य न निघातः । यूथे । यु मिश्रणे । तिथपृष्ठगूथयूथ प्रोथा इति थक्प्रत्ययान्तत्वेन निपातनाद्दीर्घः । रेतः । रीङ् रक्शन इत्यस्मात् स्रुरीभ्यां तुट् चेत्यसुन्प्रत्ययस्तुडागमश्च । नित्वादाद्युदात्तः ॥ १७ ॥