आ॒क्षित्पूर्वा॒स्वप᳚रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु᳚णीष्व॒न्तः ।
अ॒न्तर्व᳚तीः सुवते॒ अप्र᳚वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
अ॒न्तर्व᳚तीः सुवते॒ अप्र᳚वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
आ॒॑क्षित् । पूर्वा᳚सु । अप᳚राः । अ॒नू॒रुत् । स॒द्यः । जा॒तासु᳚ । तरु᳚णीषु । अ॒न्तरिति᳚ ।
अ॒न्तः॑व᳚तीः । सु॒व॒ते॒ । अप्र᳚॑वीताः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
अ॒न्तः॑व᳚तीः । सु॒व॒ते॒ । अप्र᳚॑वीताः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वासु जीर्णास्वोषधीष्वाक्षिदावर्तमानस्तथापरा नव्या ओषधीरनुरुदनुरुन्धन् र्त्पत्त्यानुगुण्येनानुतिष्ठन्नग्निः सूर्यो वा सद्यो जातासु तदानीमुत्पन्नासु तरुणीषु पल्लवितास्वोषधीष्वन्तर्वर्तते । ता ओषधयोऽप्रविताः केनापि पुरुषेणानिषिक्तरेतस्का अनभ्यक्ता वा अन्तर्वर्ततीरग्निना गर्भवत्यो भुत्वा सुवते । फलं पुष्पं चोत्पादयन्ति । तदिदं देवानामैश्वर्यं ॥ अक्षित् । क्षिनिवासगत्योः । क्विप् । अनूरुत् । अनौ रुध कामे । अस्मात् क्विप् । अन्येषामपि दृश्यत इति दीर्घः । कृत्स्वरः । तरुणीषु । नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् । म. ४-१-१५-६ । इति ङीप् । अन्तर्वतीः । झय इति मतुपो षत्वम् । सुवते । षूङ् प्राणिगर्भविमोचन इत्यस्य लटि रूपम् । निघातः ॥ ५ ॥