श्रवणम्

3.55.16
आ धे॒नवो᳚ धुनयन्ता॒मशि᳚श्वीः सब॒र्दुघा᳚ः शश॒या अप्र᳚दुग्धाः ।
नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । धे॒नवः᳚ । धु॒न॒य॒न्ता॒म् । अशि᳚श्वीः । स॒बः॒॑दुघाः᳚ । श॒श॒याः । अप्र᳚॑दुग्धाः ।
नव्याः᳚॑नव्याः । यु॒व॒तयः᳚ । भव᳚न्तीः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

धेनवो वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्योऽशिश्वीः शितुरहिताः । यद्वा । शिशवो न भवन्तीत्यशिश्वीः । शशया नभसि शयाना वर्तमानाः केनाप्यप्रदुग्धा अक्षीणरसाः सबर्दुघा उदकलक्षणस्य क्षीरस्य दोग्ध्र्यो युवतयः परस्परमिश्रणोपेतानव्या नव्या अतिशयेन नूतना भवन्तीर्दिशो मेघा वा आ धुनयन्ताम् । आदुहन्तु । मेघपक्षेऽशिस्वीर्भवन्तीत्यत्र लिङ्गव्यत्ययः । धुनयन्ताम् । धूञ् कम्पने । णिचि धूञ् प्रीणोर्नुग्वक्तव्यः । पा. ७-३-३७-१ । इति नुक् । ह्रस्वश्छान्दसः । अशिश्वी । सख्यशिश्वीति भाषायामिति व्यत्ययेन छन्दसि भवति ॥ १६ ॥