दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष᳚ प्र॒जाः पु᳚रु॒धा ज᳚जान ।
इ॒मा च॒ विश्वा॒ भुव᳚नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
इ॒मा च॒ विश्वा॒ भुव᳚नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
दे॒वः । त्वष्टा᳚ । स॒वि॒ता । वि॒श्व॑रू᳚पः । पु॒पोष᳚ । प्र॒॑जाः । पु॒रु॒धा । ज॒जा॒न॒ ।
इ॒मा । च॒ । विश्वा᳚ । भुव᳚नानि । अ॒स्य॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
इ॒मा । च॒ । विश्वा᳚ । भुव᳚नानि । अ॒स्य॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
त्वाष्ट्रे पशौ हविषोऽनुवाक्या देवस्त्वष्टेत्येषा । सूत्रितं च । देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वनानट् । आ. ३-८ । इति ।
सवतान्तर्यामितया सर्वस्य प्रेरको विश्वरूपो नानाविधरूपस्त्वष्टात्वष्टृनामको देवः प्रजाः पुरुधा बहुधा जजान । जनयति । ताश्च पुपोष । पोषयति । इमेमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि चास्य त्वष्टुः सम्बन्धीनि । विश्वरूपः । बहुव्रीहौ विश्वं संज्ञायामिति पुर्वपदान्तोदात्तत्वं ॥ १९ ॥