श्रवणम्

3.55.12
मा॒ता च॒ यत्र᳚ दुहि॒ता च᳚ धे॒नू स᳚ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची ।
ऋ॒तस्य॒ ते सद᳚सीळे अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
मा॒ता । च॒ । यत्र᳚ । दु॒हि॒ता । च॒ । धे॒नू इति᳚ । स॒ब॒र्दुघे॒ इति᳚ स॒बः॒॑दुघे᳚ । धा॒पये᳚ते॒ इति᳚ । स॒मी॒ची इति᳚ स॒म्॑ई॒ची ।
ऋ॒तस्य᳚ । ते इति᳚ । सद᳚सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

माता सर्वेषां निर्मातृत्वान्माता पृथिवी च दुहिता दुरे निहिता द्यौश्च । दुहिता दुर्हिता दूरे हिता दोग्देर्वेति यास्कः । एते सबर्दुघे सबरः स्वीयस्य क्षीररूपस्य रसस्य दोग्ध्र्यौ अत एव धेनू जगतः प्रीणयित्रौ द्यावा पृठिव्यौ यत्रान्तरिक्षे समीची परस्परं सङ्गते सत्यौ धापयेते स्वकीयं रसमन्योन्यं पाययेते ऋतस्योदकस्य सदसि स्थानभूते तस्मिन्नन्तरिक्षेऽन्तः स्थिते द्यावापृथिव्यावीळे । अहं स्त्ॐइ । यद्वा । वृष्टिलक्शणं रसं द्यौः पृथिवीं धापयति आहुतिलक्षनं रसं द्यां पृथिवीत्येवमन्योन्यं माता च दुहिता च भवतः । ऋतस्य सदसि स्थाने यज्ञसदने स्थितोऽहं ते उभे स्त्ॐइ । सबर्दुघे । सबः शब्दः क्षीरवाचीति सम्प्रदायविद आहुः । तस्मिन्नुपपदे दुह प्रपूरण इत्यस्माद्धातोर्दुहः । कब्घश्चेति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पान इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्चेति परस्मैपदे प्राप्ते पादिषु धेट् उपसंख्यानमित्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ १२ ॥