श्रवणम्

3.55.11
नाना᳚ चक्राते य॒म्या॒३॒᳚ वपूं᳚षि॒ तयो᳚र॒न्यद्रोच᳚ते कृ॒ष्णम॒न्यत् ।
श्यावी᳚ च॒ यदरु᳚षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
नाना᳚ । च॒क्रा॒ते॒ इति᳚ । य॒म्या᳚ । वपूं᳚षि । तयोः᳚ । अ॒न्यत् । रोच᳚ते । कृ॒ष्णम् । अ॒न्यत् ।
श्यावी᳚ । च॒ । यत् । अरु᳚षी । च॒ । स्वसा᳚रौ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यम्या यमरूपे मिथुनभुते अहश्च रात्रिश्चेत्येते नाना नानाविधानि वपूंषि शुक्ल कृष्णादीनि रूपाणि चक्राते । कुरुतः । श्यावी कृष्णवर्णारुषी शुक्लतयारोचमाना यत् ये परस्परं स्वसारौ भवतस्तयोर्मध्येऽन्यदर्जुनमहोरोचते । किरनसंबन्धाद्दीप्यते । अन्यद्रात्रिलक्षणं कृष्णं तमस्संबन्धात् कृष्णवर्णमाभाति । यम्या । सुपो डादेशः । रोचते । एकान्याभ्यां समर्थाभ्यामिति न निघातः ॥ ११ ॥