द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर᳚ति॒ क्षेति᳚ बु॒ध्नः ।
प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
पदपाठः (Word-by-word)
द्वि॒॑मा॒ता । होता᳚ । वि॒दथे᳚षु । स॒म्॑राट् । अनु᳚ । अग्र᳚म् । चर᳚ति । क्षेति᳚ । बु॒ध्नः ।
प्र । रण्या᳚नि । र॒ण्य॒॑वाचः᳚ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
प्र । रण्या᳚नि । र॒ण्य॒॑वाचः᳚ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
द्विमाता द्वयोरोकयोर्निर्माता विदथेषु यज्ञेषु होता देवानामाह्वाता साम्राट् यज्ञेषु सम्यग्राजमानोऽग्निरन्वग्रमग्रे दिवि चरति । सूर्यभुतस्तत्र वर्तते । बुध्नः सर्वस्य कर्मणो मूलभूतः सन् क्षेति । भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति । भक्षयति । क्षेति । यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठान्तेभागी स्विष्टकृद्रूपेण । प्रतिष्ठा वै स्विष्टकृदिति श्रुतेः । किञ्च रण्यवाचो रमणीयवाचः स्तोतारो रण्यानि रमणीयानि स्तोत्राणि प्रभरन्ते । प्रणयन्ति । कुर्वन्ति । तदिदं देवानामैश्वर्यम् । चरति । चादिलोप इति न निघातः ॥ ७ ॥