श्रवणम्

3.55.15
प॒दे इ᳚व॒ निहि᳚ते द॒स्मे अ॒न्तस्तयो᳚र॒न्यद्गुह्य᳚मा॒विर॒न्यत् ।
स॒ध्री॒ची॒ना प॒थ्या॒३॒᳚ सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ॥
▶ पदपाठः (Word-by-word)
प॒दे इ॒वेति᳚ प॒दे॑इ᳚व । निहि᳚ते॒ इति॒ नि॑हि᳚ते । द॒स्मे । अ॒न्तरिति᳚ । तयोः᳚ । अ॒न्यत् । गुह्य᳚म् । आ॒विः । अ॒न्यत् ।
स॒ध्री॒ची॒ना । प॒थ्या᳚ । सा । विषू᳚ची । म॒हत् । दे॒वाना᳚म् । अ॒सु॒र॒॑त्वम् । एक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पदे इव । पद्यते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते दस्मे सर्वैर्दर्शनीये ते उभे अन्तर्नभसि मध्ये निहिते स्थापिते इव वर्तेते । तयोरहोरात्रयोरन्यद्रात्रिलक्षनं गुह्यमप्रकाशमानतया गूढमिवास्ते । अम्न्यदहराविः सूर्यप्रकाशेन प्रकटं भवति । सध्रीचीनाहोरात्रयोः परस्परमेलनरूपा पथ्या मार्गः । काल इत्यर्थः । सा विषूची । पुण्यक्रुतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदे इव देवननुश्यादीनां स्थानभूते द्यावापृथिव्यावन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यद्ध्यौर्गुह्यमस्माभिरदृश्यमानतया गूढं वर्तते । अन्यत्पृथिव्याविः सर्वैर्दृश्यमानत्वेन प्रकटा भवति । सध्रीचीनेति पुर्ववत् । सध्रीचीना । सहपूर्वादन्चतेः क्विन् । शह्स्य सध्रीरिति सध्र्यादेशः । विभाषाण्चेरदिक् स्त्रियामिति खः ॥ १५ ॥