श्रवणम्

6.64.1
उदु᳚ श्रि॒य उ॒षसो॒ रोच᳚माना॒ अस्थु᳚र॒पां नोर्मयो॒ रुश᳚न्तः ।
कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि᳚णा म॒घोनी᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । श्रि॒ये । उ॒षसः᳚ । रोच᳚मानाः । अस्थुः᳚ । अ॒पाम् । न । ऊ॒र्मयः᳚ । रुश᳚न्तः ।
कृ॒णोति᳚ । विश्वा᳚ । सु॒॑पथा᳚ । सु॒॑गानि᳚ । अभू᳚त् । ऊं॒ इति᳚ । वस्वी᳚ । दक्षि᳚णा । म॒घोनी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रोचमाना दीप्यमाना रुशन्तः शुक्लवर्णाः रुशदिति वर्णनामेति यास्कः उषसः श्रिये जगतः शोभायै जगद्व्याप्तुं वा अपामूर्मयो न उदक- संबन्धिनस्तरंगाइव उदस्थुः उत्तिष्ठन्ति । अनन्तरमेकवन्निगमः उषाः विश्वा विश्वानि स्थानानि सुपथा सुमार्गाणि सुगानि सुखेन गम्यानि कृणोति करोति अथ च मघोनी धनवत्युषाः वस्वी प्रशस्ता दक्षिणा समर्धयित्री चा भूत् ॥ १ ॥