श्रवणम्

6.64.6
उत्ते॒ वय᳚श्चिद्वस॒तेर᳚पप्त॒न्नर᳚श्च॒ ये पि᳚तु॒भाजो॒ व्यु᳚ष्टौ ।
अ॒मा स॒ते व᳚हसि॒ भूरि᳚ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । वयः᳚ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः᳚ । च॒ । ये । पि॒तु॒॑भाजः᳚ । वि॑उ᳚ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि᳚ । वा॒मम् । उषः᳚ । दे॒वि॒ । दा॒शुषे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषोदेवि ते तव व्युष्टौ सत्यां वयश्चित् पक्षिणोपि वसतेः निवासस्थानात् उदपप्तब् उत्पतन्ति ये पितुभाजो हविषां संभक्तारः अन्नस्यो- पार्जकावा पितुरित्यन्ननामसु पाठात् नरश्च तेपि चोत्पतन्ति किं च हे उषोदेवि त्वं अमा समीपे सते वर्तमानाय दाशुषे हविषां प्रदात्रे मर्त्याय भूरि प्रभूतं वामं धनं वहसि ॥ ६ ॥

एषास्येति षळृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं अनुक्रम्यतेच एषास्येति उषस्यंत्विति पूर्वसूक्ते उक्तवात् इदमप्युषोदेवताकं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।