सु॒गोत ते᳚ सु॒पथा॒ पर्व᳚तेष्ववा॒ते अ॒पस्त᳚रसि स्वभानो ।
सा न॒ आ व᳚ह पृथुयामन्नृष्वे र॒यिं दि᳚वो दुहितरिष॒यध्यै᳚ ॥
सा न॒ आ व᳚ह पृथुयामन्नृष्वे र॒यिं दि᳚वो दुहितरिष॒यध्यै᳚ ॥
पदपाठः (Word-by-word)
सु॒॑गा । उ॒त । ते॒ । सु॒॑पथा᳚ । पर्व᳚तेषु । अ॒वा॒ते । अ॒पः । त॒र॒सि॒ । स्व॒भा॒नो॒ इति᳚ स्व॑भानो ।
सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒॑या॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै᳚ ॥
सा । नः॒ । आ । व॒ह॒ । पृ॒थु॒॑या॒म॒न् । ऋ॒ष्वे॒ । र॒यिम् । दि॒वः॒ । दु॒हि॒तः॒ । इ॒ष॒यध्यै᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषोदेवि पर्वतेषु उत दुर्गेष्वपि अवाते गमनसाधनरहिते देशे सुपथा सुपथानि मर्गाणि सुगा सुगानि सुखेन गम्यानि ते तव भवन्ति । स्वभानो हे स्वप्रकाश अपोन्तरिक्षं आकाशं आप इत्यन्तरिक्षनामसु पाठात् सामुद्रिकीरपोवा तरसि । पृथुयामन् पृथुरथे ऋष्वे दर्श- नीये देवो दुहितः अन्तरिक्षसुते है उषोदेवि सा त्वं इषयध्यै एषणीयं रयिं धनं नोस्मभ्यं आवह ॥ ४ ॥