सा व᳚ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह᳚सि॒ जोष॒मनु᳚ ।
त्वं दि᳚वो दुहित॒र्या ह᳚ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भू᳚ः ॥
त्वं दि᳚वो दुहित॒र्या ह᳚ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भू᳚ः ॥
पदपाठः (Word-by-word)
सा । आ । व॒ह॒ । या । उ॒क्ष॑भिः᳚ । अवा᳚ता । उषः᳚ । वर᳚म् । वह᳚सि । जोष᳚म् । अनु᳚ ।
त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्व॑हू᳚तौ । मं॒हना᳚ । द॒र्श॒ता । भूः॒ ॥
त्वम् । दि॒वः॒ । दु॒हि॒तः॒ । या । ह॒ । दे॒वी । पू॒र्व॑हू᳚तौ । मं॒हना᳚ । द॒र्श॒ता । भूः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषः सा स्वं वरं धनं मह्यमावह । या त्वं अवाता अमतिगता जोषं प्रीतिं अनु उक्षभिः अनडुद्भिरश्वैर्वा स्तोतृभ्योवरं वहसि । किं च हे दिवोदुहितः अन्तरिक्षसुते या त्वं देवी द्योतमाना पूर्वहूतौ प्रथमाह्वाने प्रातरनुवाके मंहना पूजनीया भवसि सा त्वं दर्शता दर्शनीया भूरिति योजना या दर्शताभूरित्यन्वये यद्बुतेन सामानाधिकरण्यात् भूरित्यस्य निघातो न स्यात् ॥ ५ ॥