श्रवणम्

6.64.3
वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः᳚ सु॒भगा᳚मुर्वि॒या प्र᳚था॒नाम् ।
अपे᳚जते॒ शूरो॒ अस्ते᳚व॒ शत्रू॒न्बाध᳚ते॒ तमो᳚ अजि॒रो न वोळ्हा᳚ ॥
▶ पदपाठः (Word-by-word)
वह᳚न्ति । सी॒म् । अ॒रु॒णासः᳚ । रुश᳚न्तः । गावः᳚ । सु॒॑भगा᳚म् । उ॒र्वि॒या । प्र॒था॒नाम् ।
अप᳚ । ई॒ज॒ते॒ । शूरः᳚ । अस्ता᳚॑इव । शत्रू᳚न् । बाध᳚ते । तमः᳚ । अ॒जि॒रः । न । वोळ्हा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणासो लोहितवर्णाः रुशन्तो दीप्यमाना गावः रश्मयःकिरणा गाव इति रश्मि नामसु पाठात् सुभगां उर्विया उर्वीं विस्तीर्णां प्रथानां प्रथमानां सीमेनामुषोदेवतां वहन्ति सेयमुषो देवता शूरः अस्तेव वीरः क्षेप्तेव शत्रून् तमः अपेजते अपगमयति । वोह्ळा सेनायाः अजिरो न क्षिप्रगामी श्त्रून् यथा वा तथा तमांसि बाधते च ॥ ३ ॥