श्रवणम्

6.64.2
भ॒द्रा द᳚दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम᳚पप्तन् ।
आ॒विर्वक्ष᳚ः कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच᳚माना॒ महो᳚भिः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः᳚ । द्याम् । अ॒प॒प्त॒न् ।
आ॒विः । वक्षः᳚ । कृ॒णु॒षे॒ । शु॒म्भमा᳚ना । उषः᳚ । दे॒वि॒ । रोच᳚माना । महः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो देवि भद्रा कल्याणी ददृक्षे दृश्यसे उर्विया विस्तीर्णा च विभासि ते तव शोचिः शोचिषः जसोलुक् दीप्यमाना भानवोरश्मयः द्यामन्तरिक्षं उदपप्तन् उत्पतन्ति । किं च हे उषोदेवि महोभिस्तेजोभिः शुंभमाना शोभमाना दीप्यमाना रोचमाना वक्षः त्वदीयं रूपं आविष्कृणुषे प्रकटीकरोषि ॥ २ ॥