श्रवणम्

4.30.10
अपो॒षा अन᳚सः सर॒त्सम्पि᳚ष्टा॒दह᳚ बि॒भ्युषी᳚ ।
नि यत्सीं᳚ शि॒श्नथ॒द्वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
अप᳚ । उ॒षाः । अन᳚सः । सर᳚त् । सम्॑पि᳚ष्टात् । अह᳚ । बि॒भ्युषी᳚ ।
नि । यत् । सी॒म् । शि॒श्नथ᳚त् । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानां वर्षितेन्द्रो यद्यदा सीमेतदुषः सम्बन्धि शकटं नि शिश्नथत् । न्यवधीत् । तदोषा उषोदेवता बिभ्युषीन्द्रसकाशाद्भीता सती संपिष्टादिन्द्रेण सञ्चूर्णितादनसः शकटादप सरत् । अपासरत् । अपजगाम । अहेति पूराः ॥ १० ॥