श्रवणम्

4.30.7
किमादु॒तासि᳚ वृत्रह॒न्मघ᳚वन्मन्यु॒मत्त᳚मः ।
अत्राह॒ दानु॒माति᳚रः ॥
▶ पदपाठः (Word-by-word)
किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒॑ह॒न् । मघ᳚॑वन् । म॒न्यु॒मत्॑त᳚मः ।
अत्र᳚ । अह᳚ । दानु᳚म् । आ । अ॒ति॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् वृत्राणामावरकाणां तमसां हन्तर्मघवन्धनवन्निन्द्र त्वमादनन्तरमेव उतापि च । किमितिप्रश्ने । मन्युमत्तमोऽसि । अत्यन्तं क्रोधवान् भवसि । अत्रास्मिन्नन्तरिक्षेऽहैव दानुं दनोः पुत्रं वृत्रमातिरः । आ समन्तादहिंसीः ॥ ७ ॥