यत्रो॒त मर्त्या᳚य॒ कमरि᳚णा इन्द्र॒ सूर्य᳚म् ।
प्राव॒ः शची᳚भि॒रेत᳚शम् ॥
प्राव॒ः शची᳚भि॒रेत᳚शम् ॥
पदपाठः (Word-by-word)
यत्र᳚ । उ॒त । मर्त्या᳚य । कम् । अरि᳚णाः । इ॒न्द्र॒ । सूर्य᳚म् ।
प्र । आ॒वः॒ । शची᳚भिः । एत᳚शम् ॥
प्र । आ॒वः॒ । शची᳚भिः । एत᳚शम् ॥
सायणभाष्यम् (Sayana Commentary)
यत्र यस्मिन् सङ्ग्राम उतापि च हे इन्द्र त्वं मर्त्याय मनुष्युआयैतशाख्याय ऋषये सूर्यमरिणाः । अहिंसीः । कमिति पूरणः । तदानीं शचीभिर्युद्धकर्मभिरेतशमेतत्संज्ञकमृषिं प्रावः । प्रकर्षेणारक्षः ॥ ६ ॥