श्रवणम्

4.30.9
दि॒वश्चि᳚द्घा दुहि॒तरं᳚ म॒हान्म᳚ही॒यमा᳚नाम् ।
उ॒षास᳚मिन्द्र॒ सं पि᳚णक् ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । घ॒ । दु॒हि॒तर᳚म् । म॒हान् । म॒ही॒यमा᳚नाम् ।
उ॒षस᳚म् । इ॒न्द्र॒ । सम् । पि॒ण॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र महांस्त्वं दिवो दुहितरं द्युलोकस्य पुत्रीं महीयमानां पूज्यमानामुषसमुषोदेवीं सं पिणक् चिद्घ । संपिष्तवानसि खलु ॥ ९ ॥