अनु॒ द्वा ज᳚हि॒ता न᳚यो॒॑न्धं श्रो॒णं च᳚ वृत्रहन् ।
न तत्ते᳚ सु॒म्नमष्ट᳚वे ॥
न तत्ते᳚ सु॒म्नमष्ट᳚वे ॥
पदपाठः (Word-by-word)
अनु᳚ । द्वा । ज॒हि॒ता । न॒यः॒ । अ॒न्धम् । श्रो॒णम् । च॒ । वृ॒त्र॒॑ह॒न् ।
न । तत् । ते॒ । सु॒म्नम् । अष्ट᳚वे ॥
न । तत् । ते॒ । सु॒म्नम् । अष्ट᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
हे वृत्रहन् वृत्रस्य हिंसकेन्द्र त्वं जहिता जहितौ सर्वैर्बन्धुभिस्त्यक्तावन्धं चक्षुर्हीनमेकं श्रोणं च पङ्गुमपरं च द्वा एतौ द्वावनु नयः । अन्धपङ्गुत्व परिहारेणानुनीतवानसि । हे इन्द्र ते त्वया दत्तं तत्सुम्नं सुखमष्टवे व्याप्तुं कोऽपि न प्रभवतिति शेषः ॥ १९ ॥