श्रवणम्

4.30.22
स घेदु॒तासि᳚ वृत्रहन्त्समा॒न इ᳚न्द्र॒ गोप᳚तिः ।
यस्ता विश्वा᳚नि चिच्यु॒षे ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । इत् । उ॒त । अ॒सि॒ । वृ॒त्र॒॑ह॒न् । स॒मा॒नः । इ॒न्द्र॒ । गो॑प᳚तिः ।
यः । ता । विश्वा᳚नि । चि॒च्यु॒षे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे इन्द्र यस्त्वं ता तानि विश्वानि समस्तान् शत्रून् चिच्युषे । प्रच्यावयः । हे वृत्रहन् वृत्राणां शत्रूणां हिंसकेन्द्र गोपरिर्गवां पालकः स त्वं समानः सर्वेषां यजमानानां समः सन् प्रख्यातोऽसि । घेदिति पूरणौ ॥ २२ ॥