ए॒तद᳚स्या॒ अनः᳚ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या ।
स॒सार᳚ सीं परा॒वतः᳚ ॥
स॒सार᳚ सीं परा॒वतः᳚ ॥
पदपाठः (Word-by-word)
ए॒तत् । अ॒स्याः॒ । अनः᳚ । श॒ये॒ । सु॑स᳚म्पिष्टम् । वि॑पा᳚शि । आ ।
स॒सार᳚ । सी॒म् । प॒रा॒॑वतः᳚ ॥
स॒सार᳚ । सी॒म् । प॒रा॒॑वतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सुसंपिष्टमिन्द्रेण सुष्ठु सञ्चूर्णितमस्या उषसः सम्बन्ध्येतदनः शकटं विपाशि । विपाडाख्या नदी । तस्यां तत्तीर आ शये । आ समन्ताच्छेते । अशेत । सीमेयमुषोदेवता शकटे भग्ने सति परावतो दूरदेशात्ससार । अपससार ॥ ११ ॥