उ॒त त्यं पु॒त्रम॒ग्रुव॒ः परा᳚वृक्तं श॒तक्र᳚तुः ।
उ॒क्थेष्विन्द्र॒ आभ᳚जत् ॥
उ॒क्थेष्विन्द्र॒ आभ᳚जत् ॥
पदपाठः (Word-by-word)
उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः᳚ । परा᳚॑वृक्तम् । श॒त॑क्र᳚तुः ।
उ॒क्थेषु᳚ । इन्द्रः᳚ । आ । अ॒भ॒ज॒त् ॥
उ॒क्थेषु᳚ । इन्द्रः᳚ । आ । अ॒भ॒ज॒त् ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च शतक्रतुः शकर्मेन्द्रस्त्यं तं प्रसिद्धमग्रुव एतनाम्न्याः पुत्रं परावृक्तमेतन्नामकमुक्थेषु स्तोत्रेष्वाभजत् । भागिनं कृतवान् । अयमर्थो वम्रीभिः पुत्रमग्रुवः । ऋग्वे. ४-१९-९ । इतस्यामृचि प्रतिपादित इति ॥ १६ ॥