उ॒त शुष्ण᳚स्य धृष्णु॒या प्र मृ᳚क्षो अ॒भि वेद᳚नम् ।
पुरो॒ यद᳚स्य सम्पि॒णक् ॥
पुरो॒ यद᳚स्य सम्पि॒णक् ॥
पदपाठः (Word-by-word)
उ॒त । शुष्ण᳚स्य । धृ॒ष्णु॒॑या । प्र । मृ॒क्षः॒ । अ॒भि । वेद᳚नम् ।
पुरः᳚ । यत् । अ॒स्य॒ । स॒म्॑पि॒णक् ॥
पुरः᳚ । यत् । अ॒स्य॒ । स॒म्॑पि॒णक् ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे इन्द्र धृष्णुया धृष्णुः धर्षकस्त्वं शुष्णस्य शुष्णनाम्नोऽसुरस्य सम्बन्धि वेदनं वित्तमभि अभितः सर्वतः प्रम्रुक्षः । प्रकर्षेणाबाधथाः । यद्यदास्य शुष्णस्य पुरः पुराणि नगराणि सम्पिणक् । सम्पिष्तवानसि । तदा प्र मृक्ष इति सम्बन्धः ॥ १३ ॥