उ॒त दा॒सस्य᳚ व॒र्चिनः᳚ स॒हस्रा᳚णि श॒ताव᳚धीः ।
अधि॒ पञ्च᳚ प्र॒धी{4}रि᳚व ॥
अधि॒ पञ्च᳚ प्र॒धी{4}रि᳚व ॥
पदपाठः (Word-by-word)
उ॒त । दा॒सस्य᳚ । व॒र्चिनः᳚ । स॒हस्रा᳚णि । श॒ता । अ॒व॒धीः॒ ।
अधि᳚ । पञ्च᳚ । प्र॒धीन्॑इ᳚व ॥
अधि᳚ । पञ्च᳚ । प्र॒धीन्॑इ᳚व ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे इन्द्र त्वं प्रधीनिव चक्रस्य परितः स्थितान् शङ्कूनिव हिंसकान्पन्च शता पञ्चशतानि पञ्चशतसंख्याकान् सहस्राणि सहस्रसंख्याकान्दासस्य लोकानामुपक्षपयितुर्वर्चिनो वर्चिनामकस्यासुरस्य सम्बन्धिनोऽनुचरान्पुरुषानध्यधिकमवधीः । हतवानसि ॥ १५ ॥