विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास᳚ इन्द्र युयुधुः ।
यदहा॒ नक्त॒माति᳚रः ॥
यदहा॒ नक्त॒माति᳚रः ॥
पदपाठः (Word-by-word)
विश्वे᳚ । च॒न । इत् । अ॒ना । त्वा॒ । दे॒वासः᳚ । इ॒न्द्र॒ । यु॒यु॒धुः॒ ।
यत् । अहा᳚ । नक्त᳚म् । आ । अति᳚रः ॥
यत् । अहा᳚ । नक्त᳚म् । आ । अति᳚रः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र विश्वे च नेत्सर्व एव देवासोऽसुरान्विजिगीषवो देवा अना प्राणरूपेण बलेन त्वा त्वां सहायं सब्ध्वा युयुधुः । असुरैः सह युद्धं चक्रुः । यद्यस्मात्कारणादहा अहःसु नक्तं रात्रिषु चातिरः । आ समन्तात् शत्रूनवधीः । अतः कारणाद्युयुधुरिति पूर्वेण सम्बन्धः ॥ ३ ॥