उ॒त दा॒सं कौ᳚लित॒रं बृ᳚ह॒तः पर्व᳚ता॒दधि᳚ ।
अवा᳚हन्निन्द्र॒ शम्ब᳚रम् ॥
अवा᳚हन्निन्द्र॒ शम्ब᳚रम् ॥
पदपाठः (Word-by-word)
उ॒त । दा॒सम् । कौ॒लि॒॑त॒रम् । बृ॒ह॒तः । पर्व᳚तात् । अधि᳚ ।
अव᳚ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब᳚रम् ॥
अव᳚ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब᳚रम् ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे इन्द्र त्वं दास मुपक्षपयितारं कौलितरं कुलितरनाम्नोऽपत्यं शंबरमसुरं बृहतो महतः पर्वतादद्रेरध्युपरि अव अवाचीनं कृत्वाहन् । हतवानसि ॥ १४ ॥