स॒त्रा ते॒ अनु᳚ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव᳚ वावृतुः ।
स॒त्रा म॒हा{4} अ᳚सि श्रु॒तः ॥
स॒त्रा म॒हा{4} अ᳚सि श्रु॒तः ॥
पदपाठः (Word-by-word)
स॒त्रा । ते॒ । अनु᳚ । कृ॒ष्टयः᳚ । विश्वा᳚ । च॒क्रा॑इ᳚व । व॒वृ॒तुः॒ ।
स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥
स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र कृष्तयः प्रजास्ते त्वामनु लक्षीकृत्य सत्रा सत्यमेव ववृत्य्ः । वर्तन्ते । तत्र दृष्टान्तः । विश्वा विश्वानि व्याप्तानि चक्रेव चक्राणीव । यथा चक्राणि शकटमनुवर्तन्ते तद्वत् । हे इन्द्र महान्स्त्वं सत्रा सत्यमेव श्रुतो विश्रुतोऽसि । गुणैः प्रख्यातो भवसि ॥ २ ॥