श्रवणम्

4.30.5
यत्र᳚ दे॒वा{4} ऋ᳚घाय॒तो विश्वा{4}॒ अयु᳚ध्य॒ एक॒ इत् ।
त्वमि᳚न्द्र व॒नू{4}रह᳚न् ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । दे॒वान् । ऋ॒घा॒य॒तः । विश्वा᳚न् । अयु᳚ध्यः । एकः᳚ । इत् ।
त्वम् । इ॒न्द्र॒ । व॒नून् । अह᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वमेक इदसहाय एव यत्र यस्मिन् सङ्ग्रामे देवानिन्द्रादीनृघायतो बाधमानान्विश्वान् सर्वान्राक्षसादीनयुध्यः । युद्धमकरोः । तथा वनून् हिंसकानहन् । अवधीः ॥ ५ ॥