अस्वा᳚पयद्द॒भीत᳚ये स॒हस्रा᳚ त्रिं॒शतं॒ हथै᳚ः ।
दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ॥
दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ॥
पदपाठः (Word-by-word)
अस्वा᳚पयत् । द॒भीत᳚ये । स॒हस्रा᳚ । त्रिं॒शत᳚म् । हथैः᳚ ।
दा॒साना᳚म् । इन्द्रः᳚ । मा॒यया᳚ ॥
दा॒साना᳚म् । इन्द्रः᳚ । मा॒यया᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रो मयया स्वकीयया शक्त्या दासानां लोकानामुपक्षपयितॄणां राक्षसादीनां त्रिंशतं त्रिंशत्संख्याकानि सहस्रा सहस्राणि दभीतये दभीतिनामकस्यार्थाय हथैर्हननसाधनैरायुधैरस्वापयत् । अवधीत् ॥ २१ ॥