ए॒तद्घेदु॒त वी॒र्य१॒᳚मिन्द्र᳚ च॒कर्थ॒ पौंस्य᳚म् ।
स्त्रियं॒ यद्दु᳚र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ॥
स्त्रियं॒ यद्दु᳚र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ॥
पदपाठः (Word-by-word)
ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य᳚म् । इन्द्र᳚ । च॒कर्थ᳚ । पौंस्य᳚म् ।
स्त्रिय᳚म् । यत् । दुः॒॑ह॒ना॒युव᳚म् । वधीः᳚ । दु॒हि॒तर᳚म् । दि॒वः ॥
स्त्रिय᳚म् । यत् । दुः॒॑ह॒ना॒युव᳚म् । वधीः᳚ । दु॒हि॒तर᳚म् । दि॒वः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र उतापि च यद्यस्त्वमेतदुपलक्षितं पौंस्यं बलं वीर्यं सामर्थ्योपेतं चकर्थ । कृतवानसि । घेदिति पूरणौ । किञ्च दुर्हणायुवं दुष्टं हननमिच्छन्तीं दिवो दुहितरं द्युलोकसकाशादुत्पन्नां स्त्रियमुषसं वधीः । अवधीः ॥ ८ ॥