उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि᳚ ।
परि᳚ ष्ठा इन्द्र मा॒यया᳚ ॥
परि᳚ ष्ठा इन्द्र मा॒यया᳚ ॥
पदपाठः (Word-by-word)
उ॒त । सिन्धु᳚म् । वि॒॑बा॒ल्य᳚म् । वि॒॑त॒स्था॒नाम् । अधि᳚ । क्षमि᳚ ।
परि᳚ । स्थाः । इ॒न्द्र॒ । मा॒यया᳚ ॥
परि᳚ । स्थाः । इ॒न्द्र॒ । मा॒यया᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र उतापि च विबाल्यं विगत बाल्यावस्थां सम्पूर्णजलां वितस्थानां वितिष्ठमानां सिन्धुं सदीमधि क्षमि क्षमायां मायया प्रज्ञया परि ष्थाः । पर्यस्थाः । सर्वतः स्थापनं कृतवानसि ॥ १२ ॥