उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः᳚ ।
अर्णा᳚चि॒त्रर᳚थावधीः ॥
अर्णा᳚चि॒त्रर᳚थावधीः ॥
पदपाठः (Word-by-word)
उ॒त । त्या । स॒द्यः । आर्या᳚ । स॒रयोः᳚ । इ॒न्द्र॒ । पा॒रतः᳚ ।
अर्णा᳚चि॒त्रर᳚था । अ॒व॒धीः॒ ॥
अर्णा᳚चि॒त्रर᳚था । अ॒व॒धीः॒ ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च सद्यः सपदि हे इन्द्र त्वं त्या त्यौ तावार्यार्यावार्यत्वाभिमानिनौ सन्तावपि । इन्द्रविषयभक्तिश्रद्धारहितावित्यर्थः । सरयोः सरय्वा नद्याः पारतः पारे तीरे वसन्तावर्नाचित्ररथा अर्णनामकं चित्ररथनामकं च राजानाववधीः । अहिंसीः ॥ १८ ॥