श्रवणम्

4.30.23
उ॒त नू॒नं यदि᳚न्द्रि॒यं क᳚रि॒ष्या इ᳚न्द्र॒ पौंस्य᳚म् ।
अ॒द्या नकि॒ष्टदा मि᳚नत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य᳚म् ।
अ॒द्य । नकिः᳚ । तत् । आ । मि॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे इन्द्र यत्पौंस्यं त्वदीयं बलमिन्द्रियं सामर्थ्योपेतं नूनं करिष्याः । क्वतवानसि खलु । अद्याद्यतनः कश्चित्तद्बलं नकिरा मिनत् । न हिंस्यात् ॥ २३ ॥