श्रवणम्

4.30.17
उ॒त त्या तु॒र्वशा॒यदू᳚ अस्ना॒तारा॒ शची॒पति᳚ः ।
इन्द्रो᳚ वि॒द्वा{4} अ᳚पारयत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । तु॒र्वशा॒यदू॒ इति᳚ । अ॒स्ना॒तारा᳚ । शची॒३॒᳚॑पतिः᳚ ।
इन्द्रः᳚ । वि॒द्वान् । अ॒पा॒र॒य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च अस्नातारास्नातारौ ययातिशापादनभिषिक्तौ त्या त्यौ तौ प्रसिद्धौ तुर्वशायदू तुर्वशनामानं यदुनामकं च राजानौ शचीपतिः कर्मणां पालकः । यद्वा । शचीन्द्रस्य भार्या । तस्याः पतिर्घर्ता विद्वान् सकलमपि जानन्निन्द्रोऽपारयत् । अभिषेकार्हावकरोत् ॥ १७ ॥