वा॒मंवा᳚मं त आदुरे दे॒वो द᳚दात्वर्य॒मा ।
वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ॥
वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ॥
पदपाठः (Word-by-word)
व॒मम्॑वा᳚मम् । ते॒ । आ॒॑दु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।
वा॒मम् । पू॒षा । वा॒मम् । भगः᳚ । वा॒मम् । दे॒वः । करू᳚ळती ॥
वा॒मम् । पू॒षा । वा॒मम् । भगः᳚ । वा॒मम् । दे॒वः । करू᳚ळती ॥
सायणभाष्यम् (Sayana Commentary)
हे अदुरे शत्रूणामादारयितरिन्द्र ते तव वामं वामं यद्यद्वननीयं सम्भजनीयं धनमस्ति लोके तद्वामं वस्वर्यमारीणां नियमयितैतन्नामको देवो ददातुय् । प्रयच्छतु । तथा करूळती कृत्तदन्तः पूषा पोषको देवो वामं धनं ददातु । भगोऽपि धनं ददातु । ननु करूळतीत्येतत्संनिहितत्वाद्भग इत्यनेन सम्बन्धनीयम् । अथवार्यमादीनां त्रयाणामपि विशेषणत्वेन भाव्यं कथं पूष्णो विशेषणं स्यादिति सखांक्षत्वात् न । सान्निध्यकाङ्क्षयोः सद्भावेऽपि योग्यतामन्तरेणान्वयायोगात् । तस्मात्पूषा प्रपिष्तभागोऽदन्तको हि । तै. सं २-६-८-५ । इत्यादिश्रुतिषु पूष्ण एवादन्तकत्वेन प्रसिद्धेर्व्यवहितस्यापि तस्यैव विशेषत्वं युक्तम् । वामं वननीयं भवतीत्याअदि निरुक्तम् । ६-३१ । अत्र द्रष्टव्यम् ॥ २४ ॥