श॒तम᳚श्म॒न्मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् ।
दिवो᳚दासाय दा॒शुषे᳚ ॥
दिवो᳚दासाय दा॒शुषे᳚ ॥
पदपाठः (Word-by-word)
श॒तम् । अ॒श्म॒न्॑मयी᳚नाम् । पु॒राम् । इन्द्रः᳚ । वि । आ॒स्य॒त् ।
दिवः᳚॑दासाय । दा॒शुषे᳚ ॥
दिवः᳚॑दासाय । दा॒शुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रोऽश्मन्मयीनां पाषाणैर्निर्मितानां पुरां शम्बरस्य सम्बन्धिनां नगराणाम् शतं शतसंख्याकं दिवोदासायैतन्नामकाय दाशुषे हविर्दत्तवते यजमानाय व्यास्यत् । व्यक्शिपत् । ॥ २० ॥