उ॒त नो᳚ गो॒षणिं॒ धिय᳚मश्व॒सां वा᳚ज॒सामु॒त ।
नृ॒वत्कृ᳚णुहि वी॒तये᳚ ॥
नृ॒वत्कृ᳚णुहि वी॒तये᳚ ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॒॑सनि᳚म् । धिय᳚म् । अ॒श्व॒साम् । वा॒ज॒॑साम् । उ॒त ।
नृ॒॑वत् । कृ॒णु॒हि॒ । वी॒तये᳚ ॥
नृ॒॑वत् । कृ॒णु॒हि॒ । वी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिच हेपूषन् गोषणिंगवांसनित्रीं अश्वसांअश्वानांसनित्रीं वाजसावाजानामन्नानांसनित्रीं उतअपिचनृवत् नृवतींनृणांवनित्रींदात्रीं एवंभूतांधियंबुद्धिंकर्मवानोस्माकंवीतयेखादनायउपभॊगार्थं कृणुहि कुरु ॥ १० ॥
संपूषन्नितिदशर्चंपंचमंसूक्तंभरद्वाजस्यार्षंपौष्णंगायत्रं संपूषन्नित्यनुक्रान्तं नष्टधनमन्विच्छतापुरुषेणैतज्जप्यं सूत्रितंच—संपूषन्विदु- षेतिनष्टधनमधिजिगमिषन्मूह्ळोवेति ।