अदि᳚त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय ।
प॒णेश्चि॒द्वि म्र᳚दा॒ मनः᳚ ॥
प॒णेश्चि॒द्वि म्र᳚दा॒ मनः᳚ ॥
पदपाठः (Word-by-word)
अदि᳚त्सन्तम् । चि॒त् । आ॒घृ॒णे॒ । पूष᳚न् । दाना᳚य । चो॒द॒य॒ ।
प॒णेः । चि॒त् । वि । म्र॒द॒ । मनः᳚ ॥
प॒णेः । चि॒त् । वि । म्र॒द॒ । मनः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेआघृणे आगतदीप्ते पूषन् अदित्सन्तंचित् दातुमनिच्छन्तमपिपुरुषं दानायअस्मद्दानार्थंचो दय प्रेरय पणेश्चित् वणिजोपिवार्धुशिक- स्यलुब्धस्यापिमनोहृदयंविम्रद दानार्थंमृदूकुरु ॥ ३ ॥