यां पू᳚षन्ब्रह्म॒चोद᳚नी॒मारां॒ बिभ᳚र्ष्याघृणे ।
तया᳚ समस्य॒ हृद᳚य॒मा रि᳚ख किकि॒रा कृ᳚णु ॥
तया᳚ समस्य॒ हृद᳚य॒मा रि᳚ख किकि॒रा कृ᳚णु ॥
पदपाठः (Word-by-word)
याम् । पू॒ष॒न् । ब्र॒ह्म॒॑चोद᳚नीम् । आरा᳚म् । बिभ᳚र्षि । आ॒घृ॒णे॒ ।
तया᳚ । स॒म॒स्य॒ । हृद᳚यम् । आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ ॥
तया᳚ । स॒म॒स्य॒ । हृद᳚यम् । आ । रि॒ख॒ । कि॒कि॒रा । कृ॒णु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेआघृणे आगतदीप्ते पूषन् बुह्मचोदनींब्रह्मणोन्नस्यप्रेरयित्रींयामारांबिभिर्षि हस्तेधारयसि तयासमस्यसर्वस्यलुब्धजनस्यहृदयंआरिख आलिख किकिराकिकिराणिकीर्णानिप्रशिथिलानिचकुरु ॥ ८ ॥